गणपति श्लोक
ॐ गणानां त्वा गणपतिं हवामहे । कविं कविनां उपमश्रवस्तमम् । ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पत आनः । शृण्वन् ऊतिभिः सीदसादनम् ।।
मंत्र पुष्पांजली
ॐ यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् । ते ह नाकं महिमानः सचंत यत्र पूर्वे साध्याः संति देवाः ।। ॐ राजाधिराजाय प्रसह्य साहिने । नमो वयं वैश्रवणाय कुर्महे । स मे कामान् काम कामाय मह्यं । कामेश्वरो वैश्रवणो ददातु कुबेराय वैश्रवणाय । महाराजाय नमः । ॐ स्वस्ति । साम्राज्यं भौज्यं स्वाराज्यं वैराज्यं पारमेष्ठ्यं राज्यं महाराज्यमाधिपत्यमयं समंतपर्यायीस्यात् सार्वभौमः सार्वायुष आं तादापरार्धात् पृथिव्यै समुद्रपर्यंताया एकेराळिति । तदप्येषः श्लोकोऽभिगीतो मरुतः परिवेष्टारो मरुतस्यावसन् गृहे । आविक्षितस्य कामप्रेर्विश्वेदेवाः सभासद इति ।।
एकदंतायविद्महे वक्रतुण्डाय धीमहि । तन्नोदंती प्रचोदयात् ।
।। मंत्रपुष्पांजली समर्पयामि।।
।। गणपतिबाप्पा मोरया ।।